Sanskrit Wisdom

सीतादेव्याः अनुकम्पा – न कश्चित् नापराध्यति – Sita’s Compassion

Posted in कथा, संस्कृतलेखः, सुभाषितम् by bharateeya on November 6, 2009

sita -hanuman
वाल्मीकी रामायणे एषा घटना वर्णिता अस्ति ।

रावणेन अपहृता सीता राक्षसस्त्रीभिः पीड्यमाना अशोकवनिकायां निवसन्ती आसीत् ।
श्रीरामः रावणं हत्वा राक्षसाण् जित्वा लंकां प्राविशत् । रणजयवार्तां सीतां वक्तुं आञ्जनेयः अशोकवनिकायां समागतः ।

तस्याः दैन्यतां अवलोक्य सः अतीव दुःखी अभवत् ।सः सीतां पृष्टवान् “भवत्याः अनुमतिः अस्ति चेत् अहं एताः निषूदयिस्यामि” इति । तदा उदारहृदया सीता हनूमन्तं एवं अवदत्

पापानां वाशुभानां वा वधार्हाणां प्लवंगम ।
कार्यं कारुण्यमार्येन न कश्चित् नापराध्यति ॥

“Be they good or evil or worthy of even being killed for performing hineous deeds, an arya ought to show compassion to them since there is none that has not sinned”.

जीसस् एवं उक्तवान् इति बैबिळ् मध्ये सूचितमस्ति “यैः पापं न कदापि अनुष्ठितं, ते एव पाषाणखण्डानि क्षिपेयुः” इति।

किंतु, ततः सहस्रावधि वर्षेभ्यः पूर्वं रामायणे सीता उक्तवती, ये आत्मानं पीडितवन्तः तेऽपि क्षन्तव्या इति । सीतायाः, वाल्मीकेः, रामायणस्य च महत्वं अधिकृत्य इतः परं किं वक्तव्यमस्ति।

Tagged with: , , ,

Leave a Reply