Bhakta Surdas Challenges God – हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥
भक्तः कः इत्यस्य नूतनमेकं व्याख्यानं मया अधुना श्रुतम् – “यो न विभक्तः स भक्तः”। अर्थात् यो भगवतः कदापि न “विभक्तः” स एव वास्तविकः भक्तः इति।
तत्वमेतत् प्रतिपादयितुं महात्मनः सूरदासस्य (१४७८-१५८१ CE) जीवनतः उद्धृतः एषः प्रसङ्गः अत्यन्तं समीचीन इति मन्ये। सूरदासस्य भक्त्या परितुष्टः भगवान् बालकृष्णः तेन सह क्रीडितुं सल्लपितुं च अनुदिनं तस्य सकाशं आगच्छति स्म। एकदा बालकृष्णः सूरदासस्य अङ्के उपविश्य तेन सह सप्रेमं सल्लपन्, पायसान्नं खादन् च आसीत्। अकस्मात् कृष्णः लीलया सूरदासस्य अङ्कात् उत्थाय दूरं गतवान्। बालकृष्णं अवरोद्धुं अन्धेन वृद्धेन च सूरदासेन कृतम् प्रयत्नं विफलमभवत्। तदा सूरदासः कृष्णमुद्दिश्य एवमवदत् –
हस्तमुत्क्षिप्य यातोसि बलात्कृष्ण किमद्भुतम् ।
हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥
विरलः कश्चित् भक्तः यः स्वहृदये ईश्चरस्य समुपस्थितिं सततं अनुभवति सः एव भगवन्तं अपि एवं आह्वयितुं शक्यते। एतादृशानां विषये एव नारदेनापि एवमुक्तं “तीर्थीकुर्वन्ति तीर्थानि.. मोदन्ते पितरो, नृत्यन्ति देवताः, सनाथा चेयं भूर्भवति” इति (नारदभक्तिसूत्राणि ६९, ७१).
श्रीकृष्णलीलाः अधिकृत्य सूरदासेन विरचितं अष्टसहस्रपद्यमितं “सूरसागरम्” अद्यापि सहस्रावधि अनुवाचकान् भक्तिरससागरे आमज्जयन्नस्ति। यावत् लोके कृष्णभक्तिः वर्तिष्यति तावत् सूरदासः अपि जनहृदयेषु विराजयिष्यति।
Glory of a Chaste Woman – हुताशनश्चन्दनपङ्कशीतलः – A Samasya Pooranam by Kalidasa
एकदा भोजराजः छद्मवेषं धृत्वा धारानगर्यां अटन्नासीत्। तत्र एकस्मिन् गृहे सः एकं विलक्षणं दृश्यं व्यलोकयत्। तस्मिन् गृहे कश्चित् पुरुषः पत्न्याः अङ्के शिरः संस्थाप्य शयान आसीत्। तदा अकस्मात् तयोः अल्पवयस्कः बालकः महानसे अग्नौ अपतत्। भयानकं तं दृश्यमवलोक्य अपि, भर्तुः निद्रायाः भञ्जनं कर्तुं न इच्छन्त्या तया स्वपतिः न उत्थापितः। तथापि तस्याः पातिव्रत्यस्य बलेन शीतलीभूत इव पावकः तं बालकं मनागपि न बाधितवान्। संवृत्तमेनं संपश्य विस्मितो भूत्वा भोजराजः स्वमन्दिरं प्रत्यगच्छत्। परस्मिन् दिने सः “हुताशनश्चन्दनपङ्कशीतल:” इत्यस्याः समस्यायाः पूरणं कर्तुं स्वसदस्येभ्यः अपृच्छत्। एषा समस्या अपि कालिदासेन एव एवं पूरिता।
सुतं पतन्तं सुसमीक्ष्य पावके न बोधयामास पतिं पतिव्रता।
तदाऽभवत् तत्पतिभक्तिगौरवात् हुताशनश्चन्दनपङ्कशीतलः॥
पूर्ववृत्तान्तं मांसचक्षुषा अपश्यता अपि कालिदासेन ज्ञानचक्षुषा एव संवृत्तमखिलं ज्ञातमिति अवगम्य भोजराजः महता आदरेण तं प्रभूतं स्वर्णं, कौशाम्बरं च दत्वा सम्मानितवान्।
कपटधार्मिकः बकः – Pseudo-righteous Heron
एषा कथा वाल्मीकेः रामायणे अस्ति वा न वा इति नाहं जानामि। तथापि एषा कथा नितरां रुचिरास्ति इत्यतः एतस्याः कथनं अत्र युक्तमिति मन्ये।
एकदा श्रीरामलक्षणौ पम्पानद्यां स्नानार्थं गतवन्तौ। तत्र तौ शनैः शानैः चलन्तं एकं जरठं बकं अपश्यताम्। एनं दृष्ट्वा श्रीरामः लक्ष्मणं एवं अब्रवीत् –
“पश्य लक्ष्मण पम्पायां बकोयं परमधार्मिकः।
शनैः शनैः पदं धत्ते जीवानां वधशंकया॥”
एतद् निशम्य तत्रस्थः कश्चित् मण्डूकः श्रीरामं एवं न्यवेदयत्।
सहवासी विजानाति सहवासी विचेष्टितम्।
बकोऽयं वर्ण्यते राय तेनाहं निष्कुलीकृतः॥
A Humorous Verse – पत्नीद्वययुतो नरः – Man with two wives
बिलाद्बहिर्बिलस्यान्तः स्थितमार्जारसर्पयोः।
मध्ये चाखुरिवाभाति पत्नीद्वययुतो नरः॥
A man having two wives appears like a rat standing in between a cat outside its hole and a snake inside the hole.
दिवा काकरवाद्भीता रात्रौ तरति नर्मदाम् – A Samasya Pooranam by Kalidasa
एकस्मिन् दिने भोजराजः छद्मवेषं धृत्वा नगरे अटन्नासीत्। तेन विलक्षणमेकं दृश्यं दृष्टम्। एकस्मिन् गृहे काश्चन युवतिः काकरवं श्रुत्वा भृशं भीता अभवत्। तद् दृष्ट्वा तस्याः पति अचिन्तयत् “एषा वस्तुतः पतिव्रता एव। काकरवमपि असह्यमाना एषा परपुरुषाणाम् स्पर्शाद् मूर्च्छां गमिष्यत्येव” इति। तस्याः सौशील्येन स नितरां सन्तुष्टः अपि अभवत्।
परन्तु तस्याः आचरणे जातशंकः भोजराजः तां निरीक्षितवान्। रात्रौ यदा तस्याः पतिः सुषुप्तोऽभवत् तदा सा गृहात् बहिः आगत्वा नर्मदायाः तीरं गतवती। भोजराजः अपि तां अनुसृतवान्। सा तत्र जले वसतां ग्राहानामपि भीतिं विना नदीं तीर्त्वा जारसमागमार्थं परं पारं गतवती।
सर्वमेतद् दृष्ट्वा विस्मितो भूत्वा भोजराजः परेद्युः राजसदसि “दिवा काकरवाद्भीता रात्रौ तरति नर्मदाम्।” इति समस्यां पूरणार्थं अयच्छत्। ऋते कालिदासं नान्यः कोऽपि एतस्याः समस्यायाः पूरणं कर्तुं शक्तोऽभवत्। अन्ततः कालिदासः एव एतस्याः पूरणं एवमकरोत् – “तत्र सन्तु जले ग्राहाः मर्मज्ञा सैव सुन्दरी॥”
कालिदासस्य कवित्वं अंतर्ज्ञानं च दृष्ट्वा सन्तुष्टो भूत्वा भोजराजः तं यथोचितं समादृतवान्।
अत्यन्ताधुनिकाः पूर्वकालीनवारस्त्रियः – “Ultra-modern” courtesans of ancient India
अधुनातनयुगे, विशेषतः महानगरेषु, स्त्रियस्तेषां ओष्ठरागः (lipstick) यदृच्छया सम्मार्जितो न भवेदिति चिन्तयित्वा महता अवधानेन वर्तन्ते इति वयं जानीमः। परन्तु पुरा अस्माकं देशे अपि एतादृशाः काश्चन स्त्रियः आसन्नित्यस्य एषः श्लोकः प्रमाणम्।
उपभुक्तखदिरवीटकजनिताधररागभङ्गभयात्।
पितरि मृतेऽपि हि वेश्या रोदिति हा तात तातेति॥
Fearing that her lips may lose the red colour created by chewing of betal leaves, the courtesan, even when her father dies, doesn’t cry “ha pita, pita” but cries ” ha tata tata”.
पकारः ओष्ठजः (labial consonant) अस्ति इत्यतः यदि तया “पिता पिता” इत्युच्चरितं चेत् ताम्बूलचर्वणेन जनितः ओष्ठरागः सम्मार्जितो भवेदिति भयाद् एषा वारांगना “हा तात तात” इत्येव रोदिति। तकारः दन्त्यः (dental consonant) इत्यतः तस्योच्चारणे ओष्ठरागस्य भङ्गभय एव नास्तीति कारणम्।
च वै तु हि च वे तु हि – A humorous sloka from Tola Kavi
पुरा केरले तोलः नामकः एकः अनुगृहीतः कवि आसीत्। मलयालभाषायां संस्कृते च बहूनि नाटकानि एवं काव्यानि तेन रचितानि। परन्तु केरलीयाः अद्य प्रायशः तस्य सरसश्लोकान्येव स्मरन्ति। तेषामेकः सरसश्लोकः अत्र दीयते।
उत्तिष्ठोत्तिष्ठ राजेन्द्र मुखं प्रक्षालयस्व टः।
एष आह्वयते कुक्कुः च वै तु हि च वे तु हि॥
अस्मिन् श्लोके द्वितीयपादे टः शब्दः, तृतीये पादे “कुक्कुः”, पूर्णः अन्तिमपादश्च अवगन्तुं किंचित् क्लेशः स्यात्। बहुशः संस्कृतकवयः श्लोकेषु अन्वयक्रमं विना एकस्यैव वाक्यस्य पदान् विविधपादेषु प्रयुज्यन्ति। एतत् तोलकवये न रोचते। तस्य मतानुसारेण यदि एकस्य वाक्यस्य विविधान् पदान् श्लोकस्य विभिन्न पादेषु प्रयोक्तुं शक्यते चेत् एकस्य पदस्य विभिन्नान् शब्दानपि भिन्नपंक्तिषु किमर्थं न लिखितव्यम्? एतत् प्रमाणयितुं तेन कुक्कुटपदं विभज्य पृथक् पंक्तयोः लिखितम्।
प्रायशः कवयः श्लोकेषु चकारादीनां अव्ययानां अत्र तत्र वृथा प्रयोगं कुर्वन्ति। तस्योपसार्थं तेन चकारादीनि अव्ययानि एकत्र अन्तिम पादे उपयोक्तानि – च वै तु हि च वे तु हि।
अतः श्लोकस्य भावार्थः एवमस्ति – “हे राजेन्द्र, उत्तिष्ठ उत्तिष्ठ, मुखं प्रक्षालयस्व। एषः कुक्कुटः आह्वयते” इति॥
A verse on Chewing Betal Leaves – सुधाधिक्यं स्पृहेच्छत्रुः

Vasistha Kavyakantha Ganapati Muni (1878-1936)
एकदा केचन कलालयछात्राः गणपतिमुनेः वैदुष्यं, कवित्वं च परीक्ष्य आस्वादितुं समागताः। संभाषणमध्ये ते तं अपृच्छन् “ताम्बूलचर्वणविषये भवतः अभिप्रायः पद्येन कथ्यतां” इति। तदा मुनिः तद्विषये स्वीयमभिप्रायं एतेन सरलेन श्लोकेन प्रकटीकृतवान्।
सुधाधिक्यं स्पृहेच्छत्रुः फलाधिक्यं स्पृहेद् भिषक् ।
पत्राधिक्यं स्पृहेज्जाया माता तु त्रितयं स्पृहेत् ॥ इति॥
(A person’s enemies would want excess lime in his tambulam; his physician would want excess areca nut in it; his wife would want excess Betel leaf in it while his mother would want all the three in right proportion.)
ताम्बूले सुधायाः आधिक्येन मुखे जिह्वायां च व्रणं भवति। तस्मात् शत्रूणां तदभिलषणीयम्। क्रमुकफलस्य अधिकसेवनेन उदररोगः भवति। तद् वैद्यस्य लाभाय एव। ताम्बूले पत्रस्य अधिकोपयोगेन कामवृद्धिर्भवति इत्यतः तद् जायायाः इष्टं भवति। ताम्बूले फल-पत्र-सुधानां त्रयाणां यथाविधिः सेवनं आरोग्यप्रदं पाचनशक्तिं वर्द्धयति इति कारणात्। अतः माता स्वपुत्रः ताम्बूलं एवमेव सेवयेदिति इच्छति।
एतत्प्रसङ्गः कापालिशास्त्रिवर्येण विरचितात् वासिष्ठवैभवात् समाहृतोऽस्ति।
महाकवेः कालिदासस्य अन्तिमं समस्यापूरणम् – Last “Samasya” of Kalidasa
एकदा भोजराजः कुपितो भूत्वा कालिदासं राजसभातः बहिष्कृतवान्। अभिमानधनः कालिदासः छद्मवेषं धृत्वा कस्यचन युवत्याः गृहे न्यवसत्। किंचित्कालानन्तरं भोजराजः रामायणमधिकृत्य चम्पू काव्यमेकं रचितवान्। परन्तु महाकवेः कालिदासस्य अनुमतिं विना तत् चम्पूकाव्यं प्रकाशयितुं भोजराजः न ऐच्छत्। अतः स एकां समस्यां निर्माय “यः कोऽपि एषां समस्यां पूरयति तस्मै मम राज्यस्य अर्धं ददामि” इति उद्घोषितवान्।
समस्य एवमासीत् – “कुसुमे कुसुमोत्पत्तिः दॄश्यते न च श्रूयते।” कालिदासाद् ऋते समस्यामेतां पूरयितुं न कोऽपि शक्त इति भोजराजः सम्यक् जानाति स्म।
यस्याः गृहे कालिदासः निवसन्नासीत् सा युवतिः गृहस्य भित्तौ समस्यामेतां लिखितवती। राज्ञः घोषणायाः विषये किंचिदपि कालिदासेन न श्रुतम्। अतः सः भित्तौ लिखितं श्लोकार्द्धं दृष्ट्वा एषा समस्या युवत्या एव रचिता इति मत्वा भित्तौ श्लोकस्य पूर्वार्द्धस्य अधः एवं लिखित्वा समस्यां अपूरयत् – “बाले तव मुखांभोजे नयनेन्दीवरद्वयम्” इति। एतद् दृष्ट्वा सा युवती प्रसन्ना भूत्वा श्लोकमेनं एकस्मिन् पत्रे लिखितवती। समस्यापूरणं कालिदासेन कृतमिति न केनापि ज्ञातव्यमिति चिन्तयित्वा सा कालिदासं एकस्मिन् गर्ते पातयित्वा तस्योपरि एकां शिलामपि संस्थाप्य राजमन्दिरं अगच्छत्। समस्यापूरणं दृष्ट्वा भोजराजः तत्क्षणमेव अवगतवान् एतत् कालिदासेन कृतमिति। कालिदासः कुत्र अस्ति? किं त्वया कालिदासो हतो वा? इति राजा तां अपृच्छत्। भीता सा राजानं सर्वं वृत्तन्तं अवदत्।
भोजराजः झटिति तस्याः गृहं गत्वा कालिदासं गर्तात् रक्षितवान्। परन्तु तावता कालिदासः मृतप्राय आसीत्। सः राजानं अवदत् “इह जीवनं नितरां चञ्चलमस्ति। मम जीवनस्य अन्तिमक्षणे परमात्मनि मनः संस्थापयितुमिच्छामि” इति। एतच्छ्रुत्वा भोजराजः विषण्णो भूत्वा एवं अवदत् “मया रामायणमधिकृत्य चम्पूकाव्यमेकं रचितम्। तद्भवता श्रोतव्यमिति मे अभिलाषः” इति। कालिदासस्य अनुमतिं प्राप्य राजा काव्यं श्रावयितुमारव्धवान्। यावता सुन्दरकाण्डस्य अन्तिमश्लोकः पठितः तावता महाकवेः कालिदासस्य प्राणाः शरीरान्निर्गताः।
भोजराजः रामायणचम्पूकाव्यस्य सुन्दरकाण्डपर्यन्तमेव प्रकाशनमकरोत् यतः तावदेव कालिदासेन श्रुतं अनुमतं च – युक्धकाण्डं, उत्तरकाण्डं च सः अग्नौ प्राक्षिपत्। कालिदासं प्रति भोजराजस्य मनसि कियान् आदरः आसीदित्यस्य एषः प्रसङ्ग एव प्रमाणम्।
महाभारत-रामायण-वेदानां कालनिर्णयः – Scientific dating of Mahabharata, Ramayana & Vedas

अस्मत्पूर्वजैः एतद्देशस्य इतिहासः न सम्यक् लिखितः इति प्रायशः वयं सर्वे चिन्तयामः। अस्माकं इतिहासस्य कालानुक्रमविषयेऽपि वैदेशिकाः भारतीयाश्च पण्डिताः न एकमताः। श्रीरामः श्रीकृष्णः कश्चिदन्यः महापुरुषो वा कस्मिन् शतके जीवन्नासीदिति याथातथ्येन वक्तुं इतः पर्यन्तं दुष्करमेवासीत्।
परन्तु अधुना पुण्यनगरवासिना डा. पद्मनाभ विष्णु वर्तक वर्येण त्रिंशत् वर्षाणां अनुसन्धानानन्तरं महाभारत-रामायणयोः वेदस्य च कालाः निर्णीताः। एतेषु ग्रन्थेषु सूचितानां ज्यौतिषिकोल्लेखानां, पौराणिकैः पाषाणशिलालेखैः, ऐतिहासिक प्रमाणैश्च सह समर्थयित्वा डा. वर्तकवर्यः रामायणभारतादीनां कालनिर्णयं कृतवान्।
डा. वर्तकस्य मतमनुसृत्य महाभारतयुद्धं क्रिस्तोः पूर्वं ५५६२ वर्षे, रामरावणयोः संग्रामः क्रिस्तोः पूर्वं ७२९२ वर्षे च अभवताम्। तथा च ऋग्वेदस्य आदिमसूक्तानां रचना क्रिस्तोः पूर्वं २३७२० तमे वर्षे अभवत् इत्यपि सः निर्णीतवान्। एतद्विषये डा. वर्तकवर्येण आङ्गलभाषायां पुस्तकद्वयं रचितमस्ति। ते द्वेऽपि पुस्तके इदानीं अन्तर्जालके उपलभ्येते। एतयोः अन्वये अधः प्रदत्ते स्तः।
The Scientific Dating of Mahabharata War
The Scientific Dating of Ramayana and the Vedas
ग्रन्थकारस्य सङ्केतः
डा. पी. वी. वर्तक्,
५५१, शनिवार् पेठ्,
पुणे, महाराष्ट्रम्
दूरध्वनिः – ०२०-२४४५०३८७
कार्यसमयः – प्रातः ९-११ एवं सायं ६-८
Mutual Appreciation – अहो रूपमहो स्वरम् ॥
वानराणां विवाहेषु गर्दभाः सन्ति गायकाः ।
परस्परं तेऽभिनन्दन्ति अहो रूपमहो स्वरम् ॥
Vanaranam vivaheshu gardabhah santi gayakah
Parasparam tebhinandanti aho rupamaho svaram
In a marriage of monkeys, donkeys were the singers. They praise each other saying, “Oh what a beautiful couple” and “Oh how sweet a voice”.
पञ्चतन्त्रे चतुरुपायाः – एका बोधकथा Panchatantra on 4 Upayas – A story

A Panchatantra relief at the Mendut temple, Indonesia
साम-दान-भेद-दण्डानां चतुर्णां उपायानां कः उपायः केन सह प्रयोक्तव्य इति पञ्चतन्त्रान्तर्गतः एषः श्लोकः सम्यक् वर्णयति।
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् ।
नीचमल्पप्रदादेन समशक्तिं पराक्रमैः ॥
Win a strong and virtuous adversary by bowing down to him (Sama); a valiant adversary by creating fear or jealousy in his mind (Bheda); a mean but strong adversary by slightly rewarding him (Danam); an equally strong adversary by valour (Dandah).
श्लोकस्यैतस्य प्रतिपादनार्थं एका रुचिरा कथा अपि पंचतन्त्रस्य चतुर्थे तन्त्रे (लब्धप्रणाशे) कथितास्ति।
महाचतुरको नाम शृगालः अरण्ये मृतमेकं गजं पश्यति। गजस्य कठिनां त्वचां भेत्तुं न शक्नोति। तदा कश्चित् सिंहः तत्रागच्छति। महाचतुरकः तं प्रणम्य वदति “स्वामिन्, दासोऽहं भवताम्। भक्षयतु एनं गजम्” इति। सिंहः प्रसन्नः भूत्वा वदति “नाहमन्येन हतं सत्वं भक्षयामि। कुलीनोऽहं न कदापि कुलमर्यादां न त्यजामि।” ततः स गतः।
सिंहे गते कश्चित् व्याघ्रः समागच्छति। महाचतुरकः तं ससंभ्रमं वदति “किमर्थं भवान् मृत्युमुखे प्रविशति? गजोऽयं सिंहेन हतः। स मां एतस्य रक्षणे नियुज्य स्नानार्थं गतः। तेनाहं समादिष्टः “यदि कश्चित् व्याघ्रः समायाति त्वया सुगुप्तं ममावेदनीयम्। येन वनमिदं मया निर्व्याघ्रं कर्तव्यम्।” तत् श्रुत्वा व्याघ्रः ततः सत्वरं पलायनं करोति।
व्याघ्रे गते कश्चित् चित्रव्याघ्रः (चित्रकः) समायाति। तं दृष्ट्वा महाचतुरकः एवं चिन्तयति “अयं दृढदंष्ट्रः गजस्य कठिनं चर्मं भेत्तुं शक्नोति। एतस्य साहाय्येन तत् साधयितव्यम्।” सः चित्रकं वदति “भवान् ममाऽतिथिः, बुभुक्षित इव लक्ष्यते च। अतः यावत् सिंहः न आयाति तावत् अस्य गजस्य मांसं भक्षयतु। सिंहस्यागमनं दूरतोऽपि त्वामहं सूचयामि” इति। चित्रकेन यदा दंष्ट्रैः गजस्य चर्मं भिन्नं तदा महाचतुरकः उच्चैः विज्ञापयति “एषः सिंहः समायाति। गम्यताम्” इति। तत् श्रुत्वा चित्रकः द्रुतं पलायते।
यावत् महाचतुरकः चित्रकेन कृतेन द्वारेण किंचित् मांसं भक्षयति तावत् अपरः शृगालः समायाति। एषः समशक्ति इति अवगम्य महाचतुरकः तं आक्रम्य मारयति।
एवं चतुर्विधान् प्रतियोगीन् विविधैः उपायैः जित्वा महाचतुरकः चिरकालं हस्तिमांसं भुंङ्क्ते।
कथामेषां आङ्गलभाषायां पठितुं जालपुटमेतत् सन्दर्शयन्तु।
संपूर्णं पंचतन्त्रं आङ्गलभाषायाम्
पंचतन्त्रान्तर्गताः काश्चन कथाः संस्कॄतभाषायाम् आङ्गलानुवादसहितम्


leave a comment